|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.370. अध्यायः 370
Mahabharata - Shanti Parva - Chapter Topics
ब्राह्मणसंदेशश्रवणरुष्टेन नागेन पत्नीसुवाक्येन रोषत्यागपूर्वकं ब्राह्मणंप्रति प्रस्थानम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
नाग उवाच। 12-370-0x(6669)(80666)
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि।
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते॥ 12-370-1(80667)
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि।
संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति॥ 12-370-2(80668)
सुरासुरगणानां च देवर्षीनां च भामिनि।
ननु नागा महावीर्याः सौरभेयास्तरस्विनः॥ 12-370-3(80669)
वन्दनीयाश्च वरदा वयमप्यनुयायिनः।
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः॥ 12-370-4(80670)
नारभार्योवाच। 12-370-5x(6670)
आर्जवेन विजानामि नासौ देवोऽनिलाशन।
एकं तस्मिन्विजानामि भक्तिमानतिरोपण॥ 12-370-5(80671)
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा।
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते॥ 12-370-6(80672)
हित्वा त्वद्दर्शनं किंचिद्विघ्नं न प्रतिपालयेत्।
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते॥ 12-370-7(80673)
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि।
आशाच्छेदेन तस्याद्य नात्मानं दरधुमर्हसि॥ 12-370-8(80674)
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम्।
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते॥ 12-370-9(80675)
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत्।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते॥ 12-370-10(80676)
भूप्रदानेन च गतिं लभत्याश्रमसंमिताम्।
न्याय्यस्यार्धस्य संप्राप्तिं कृत्वा फलमुपाश्रुते॥ 12-370-11(80677)
अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम्।
न याति निरयं कश्चिदिति धर्मविदो विदुः॥ 12-370-12(80678)
नाम उवाच। 12-370-13x(6671)
अभिमानैर्न मानो मे जातिदोषेण वै महान्।
रोषः संकल्पजः साध्वि दग्धो वागग्निना त्वया॥ 12-370-13(80679)
न च रोषादहं साध्वि पश्येयमधिकं तमः।
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः॥ 12-370-14(80680)
रोषस्य हि वशं गत्वा दशग्नीवः प्रतापवान्।
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे॥ 12-370-15(80681)
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्।
धर्मणारोषसंविग्नाः कार्तवीर्यसुता हताः॥ 12-370-16(80682)
जामदग्न्येन रामेण सहस्रनयनोपमः।
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः॥ 12-370-17(80683)
तदेष तपसां शत्रुः श्रेयसां विनिपातकः।
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव॥ 12-370-18(80684)
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि।
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता॥ 12-370-19(80685)
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः।
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति॥ ॥ 12-370-20(80686)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्यधिकत्रिशततमोऽध्यायः॥ 370॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-370-1 कथं त्वमनुपश्यसीति ट. पाठः॥ 12-370-3 सौरभेयाः दिव्यगन्धवहाः॥ 12-370-6 स्तोककः चातकः॥ 12-370-7 त्वद्दर्शनं विनास्य कोपि विघ्नो माभूदित्यर्थः। अतिथिं त्यक्त्वा न कश्चित्स्वकुले आस्ते इत्यर्थः। नहि त्वां दैवतं किंचिद्द्वितीयं प्रतिपालयेदिति ट. पाठः॥ 12-370-9 भ्रूणहत्यैव भ्रूणहत्ययैव॥ 12-370-10 दानेनाभ्युदयो महानिति ट. पाठः॥ 12-370-11 लभत्याश्रमसंपदमिति ट. पाठः॥ 12-370-12 नष्टस्यार्थस्य संप्राप्तिं कृत्वा कामकृताः क्रिया इति ट. पाठः॥ 12-370-14 तस्य रोषस्य विशेषेणाधिक्येन॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|